पूर्वम्: ८।२।७१
अनन्तरम्: ८।२।७३
 
सूत्रम्
वसुस्रंसुध्वंस्वनडुहां दः॥ ८।२।७२
काशिका-वृत्तिः
वसुस्रंसुध्वंस्वनडुहां दः ८।२।७२

ससजुषो रुः ८।२।६६ इत्यतः सः इति वर्तते, तेन सम्भवात् व्यभिचाराच् च वसुरेव विशेष्यते, न स्रंसुध्वंसू, व्यभिचाराभावात्, असम्भवाच् च न अनडुह्, शब्दः। वस्वन्तस्य पदस्य सकारान्तस्य स्रंसु, ध्वंसु, अनडुः इत्येतेषां च दकारादेशो भवति। वसु विद्वद्भ्याम्। विद्वद्भिः। पपिवद्भ्याम्। पपिवद्भिः। स्रंसु उरवास्रद्भ्याम्। उरवास्रद्भिः। ध्वंसु पर्णध्वद्भ्याम्। पर्णध्वद्भिः। अनडुः अनडुद्भ्याम्। अनडुद्भिः। सः इत्येव, विद्वान्। पपिवान्। नकारस्य न भवति। रुत्वे नाप्राप्ते इदम् आरभ्यते इति तद् बाध्यते। संयोगान्तलोपस् तु न एवम् इति तेन एतदेव दत्वं बाध्यते। अनडुहो ऽपि ढत्वम् अनेन बाध्यते। नुमस्तु विधानसामर्थ्यान्न भवति, अनड्वान्, हे अनड्वनिति। पदस्य इत्येव, विद्वांसौ। विद्वांसः।
लघु-सिद्धान्त-कौमुदी
वसुस्रंसुध्वंस्वनडुहां दः २६३, ८।२।७२

सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते। अनडुद्भ्यामित्यादि॥ सान्तेति किम्? विद्वान्। पदान्ते किम्? स्रस्तम्।ध्वस्तम्॥
न्यासः
वसुरुआंसुध्वंस्वनडुहां दः। , ८।२।७२

"विद्वद्भ्याम्()" इति। "विदेः शतुर्वसुः" ७।१।३६ इति वसुरादेशः। "पपिवद्भ्याम्(), पपिवद्भिः" इति। पिवतेः पातेर्वा लिट्(), क्वसुः, "वस्वेकाजाद्घासाम्()" ७।२।६७ इतीट्(), "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः, स्थानिवद्भावेन "पा" इत्येतद्()द्विरुच्यते। "उखारुआत्(), पर्णध्वत्()" इति रुआंसिध्वंसिभ्याम्()--उखायाः रुआंसते, पर्णानि ध्वंसत इति क्विप्(), "अनिदिताम्()" ६।४।२४ इति नलोपः। इहेदं वसोर्दत्वमनवकाशम्(), सर्वस्य विषयस्य विध्यन्तरेणावष्टब्धत्वात्(); तथापि विद्वानित्यादौ संयोगान्तलोपः प्राप्नोति, विद्वद्भ्यामित्यादौ तु रुत्वम्()। अतस्तदनवकाशत्वाद्यदा रुत्वं बाधते तदा संयोगान्तलोपोऽपि तेन बाधितव्यः, ततश्च विद्वानिति न सिध्यतीति तस्य व्यामोहः स्यात्(), तं प्रत्याह-"रुत्वे नाप्राप्ते" इत्यादि। "यस्मिन्नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति" (व्या।प।४९), न चाप्राप्ते रुत्व इदमारभ्यते, अतस्तदेव दत्वेन बाध्यते। "संयोगान्तलोपस्तु नैवम्()" इति। तुशब्दो रुत्वाद्विशेषं दर्शयति। इतिकरणो हेतौ। यथा रुत्वं सर्वत्र प्राप्नोति नैवं स्योगान्तलोपः। स हि विद्वानित्यादावेव प्राप्नोति, न विद्वद्भचामित्यादौ। तस्मात्? तेनैव दत्वं बाध्यते, न त्वसौ दत्वेन; संयोगान्तलोपे कत्र्तव्ये दत्त्वस्यासिद्धत्वादित्यभिप्रायः। अत यथा "हो ढः" ८।२।३१ इत्यस्य दकारोऽत्रापवादः, तथा स ["स तथा"--प्रांउ।पाठः] "सावनडुहः" ७।१।८२ इत्यस्यापि कस्मान्न भवति, यता ह्रवकाशत्वाद्दकारो ढत्वस्य बाधकस्तथा नुमोऽपि बाधक एव युक्तः? इत्यत आह--"नुमस्तु विधानसामथ्र्यान्न भवति" इति। प्रतिपदं हि "सावनडुहः" नुम्? विधीयते, तस्य यद्ययं दकारोऽपवादः स्यात्(), नुम्वधानमनर्थकं स्यात्()। "अनड्वान्()" इति। "चतुरनडुहोरामुदात्तः" ७।१।९८ इत्याम्(), यणादेशः, हल्ङ्यादि ६।१।६६ संयोगान्त ८।२।२३ लोपौ। "हे अनड्वन्()" इति। "अम् सम्बुद्धौ" ७।१।९९ इत्यम्()। सेषं पूर्ववत्()॥
बाल-मनोरमा
वस्रुंसुध्वंस्वनडुहां दः , ८।२।७२

भ्यामादौ हलि विशेषमाह--वसुरुआंसु। वसुः प्रत्ययः, तेन तदन्तं गृह्रते। "रुआंसु ध्वंसु अवरुआंसने" इति धातू। "ससजुषो रुः" इत्यतः "स" इति लुप्तष,()ठीकमनुवृत्तम्। तेन च वसुर्विशेष्यते। तदन्तविधिः। सान्तत्वं रुआंसुध्वंस्वोर्न विशेषणम्, अव्यभिचारात्। नाप्यनडुहः, असंभवात्। पदस्येत्यधिकृतं बहुवचनान्तत्वेन विपरिणम्यते। "अलोऽन्त्यस्ये"ति तदन्तस्य भवति। फलितमाह--सान्तेत्यादिना। यथासंभवं रुत्वढत्वयोरपवादः। अनडुद्भ्यामिति। "स्वादिष्वसर्वनामस्थाने" इति पदत्वादिति भावः। इत्यादीति। अनडुद्भिः। अनडुद्भ्यः २। अनडुहे। अनडुहः। अनडुहः अनडुहोः अनजुहाम्। दत्वे "खरि चे"ति चत्र्वम्। अनडुत्सु। सान्तेति किमिति। वसोरपि सान्तत्त्वाऽव्यभिचारात्प्रश्नः। विद्वानिति। विद्वस् स् इति स्थिते "अतवसन्तस्ये"ति दीर्घे "उगिदचा"रिति नुमि सुलोपे संयोगान्तलोपे च रूपम्। अत्र वसोः सकारान्तत्वाऽभावान्न दत्वमिति भावः।

रुआस्तं ध्वस्तमिति। क्तप्रत्ययान्तम्। अत्र पदान्तत्वाऽभावान्न दत्वम्। विद्वांसौ अनड्वाहावित्याद्यप प्रत्युदाहार्यम्।

तत्त्व-बोधिनी
वसुरुआंसुध्वंस्वनडुहां दः २९४, ८।२।७२

वसुरुआंसु। वस्विति प्रत्ययः, तेन तदन्तं ग्राह्रम्। "ससजुषो"रिति सूत्रात्सेत्यनुवर्तते, तच्च वसोरेव विशेषणं, न तु सरंसुध्वंस्वोः, अव्यभिचारात्। नाऽप्यडुहः, असंभवादित्यभिप्रेत्याह--सान्तवस्वन्तस्येति।